(1) \ विश्वानिदेव सवितर्दुरितानि परासुव यद् भद्रं तन्न आसुव।
(2) हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेक आसीत।
स दाधार पृथ्वीं द्यामुतेमां, कस्मै देवाय हविषाविधेम।।
(3) य आत्मा बलदा यस्य विश्व उपासते, प्रशिषं यस्य देवा: ।
यस्य छायामृतं यस्य मृत्यु:, कस्मै देवाय हविषाविधेम।।
(4) य: प्राणतो निमिषतो महित्वैक इन्द्राजा जगतो बभूव।
य ईशे अस्य द्विपद चतुष्पद:, कस्मै देवाय हविषाविधेम।।
(5) येन धौरुग्रा पृथिवी च दृढ़ा येन स्व: स्तंभित येन नाक:।
यो अन्तरिक्षे रजसो विमान:, कस्मै देवाय हविषाविधेम।।